


१॥ मोक्षस्तोत्रानि
ओं नमो देवेभ्यः। नमो गुरुभ्यः। नमो पुरुषेभ्यः॥
ओं सद्गुरुनाथ् नमः॥
सद्गुरु वंशः स्तोत्रम्॥ १॥
ओं नमः पार्वतीपते हर हर हर महादेव॥
ओं नमः शिवाय गुरवे सच्चिदानन्द मूर्तये।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे॥ १॥
नमः शिवाय सततं पञ्चकृत्य विधयिने।
चिदानन्द घन स्वात्मा परमर्थव भशिने॥ २॥
माताज पार्वती देवि पिता देवो महेश्वरः।
बन्धव शिव भक्तश्च स्व देशो भुवनः त्रयं॥ ३॥
नित्यानन्दाय गुरवे शिष्यसंसारहारिणे।
भक्तकार्यैकदेहाय नमस्ते चित्सदात्मने॥ ४॥
कृष्णदासाय नममि सः ज्ञानि सर्वधर्मस्य।
यं अत्माबोधः यच्छति सर्वात्मनाः संसारस्य॥ ५॥
वेन्कतेश्वराय स्वामी श्रीगुरुः महाविद्यस्य।
भिषज संसाररोग आचार्यः बोधसर्वस्य॥ ६॥
चिदारूढाय नममि संसारनरमुच्चसि।
त्वं वंश अहंभजामि बोधाययनयच्छसि॥ ७॥
ओं सह नाववतु। सह नौ भुनक्तु। सह वीर्यां करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै॥ ८॥
ओं शान्तिश्शान्तिश्शान्तिः॥
श्री गुरुस्तोत्रम्॥ २॥
श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः। श्रीगुरुभ्यो नमः॥
ओं। अस्य श्रीगुरुस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः।
नानाविधानि छन्दांसि। श्रीगुरुपरमात्मा देवता॥
श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः॥
अथ ध्यानम्।
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर् -
विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छंदमात्मेच्छया॥
तद्योतं पदशांभवं तु चरणं दीपाङ्कुर ग्राहिणम्।
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम्॥
मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः॥
अथ श्रीगुरुस्तोत्रम् प्रारंभः।
ईश्वर उवाच।
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः॥ १॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते।
अज्ञान ग्रासकं ब्रह्म गुरुरेव न संशयः॥ २॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम्।
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः॥ ३॥
अ-त्रिनेत्रः सर्वसाक्षी अ-चतुर्बाहुरच्युतः।
अ-चतुर्वदनो ब्रह्मा श्री गुरु कथितः प्रिये॥ ४॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परब्रह्म तस्मै श्री गुरवे नमः॥ ५॥
तदेजति तन्नैजति तद्दूरे तत्समीपके।
तदंतरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥ ६॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम्।
अविकारश्चिदानन्द अणीयान् महतो महान्॥ ७॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥ ८॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम्।
वराभययुतं शांतं स्मरेत्तं नामपूर्वकम्॥ ९॥
पादाब्जं सर्वसंसार-दावानलविनाशकम्।
ब्रह्मरन्ध्रे सितांभोज-मध्यस्थं चन्द्रमण्डले॥ १०॥
अकथादि त्रिरेखाब्जे सहस्रदल मण्डले।
हंस पार्श्व त्रिकोणे च स्मरेत्तन्मध्यगं गुरुम्॥ ११॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्॥ १२॥
एकं नित्यं विमलमचलं सर्वधीसाक्शिभूतम्।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥ १३॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥ १४॥
यस्मिन्सृष्टिस्थितिध्वंस-निग्रहानुग्रहात्मकम्।
कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम्॥ १५॥
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥ १६॥
इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवम्।
मम शासनतो मम शासनतो मम शासनतो मम शासनतः॥ १७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम्।
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत्॥ १८॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम्।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा॥ १९॥
गुरुमूर्तिं स्मरेन्नित्यं गुरु नाम सदा जपेत्।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत्॥ २०॥
स्वदेशिकस्यैव शरीरचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम्।
स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम्॥ २१॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम्।
दीर्घ दण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ॥ २२॥
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि।
कालमृत्युभयाद्वापि गुरू रक्शति पार्वति॥ २३॥
एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः।
स याति नरकं घोरं यावच्चंद्रदिवाकरौ॥ २४॥
हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन॥ २५॥
गुरुं त्वं कृत्य हुं कृत्य गुरुं निर्जित्य वादतः।
अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्शसः॥ २६॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम्॥ २७॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम्।
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते॥ २८॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम्।
आसनं शयनं वस्त्रं भूशनं वाहनादिकम्॥ २९॥
साधकेन प्रदातव्यं गुरु संतोष कारकम्।
गुरोराराधनं कार्यं स्वजीवितं निवेदयेत्॥ ३०॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टि वर्धनम्।
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत्॥ ३१॥
यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत्।
गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत्॥ ३२॥
अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम्।
तस्मात् सर्व प्रयत्नेन गुरोराराधनं कुरु॥ ३३॥
निधये सर्व विद्यानां भिषजे भवरोगिनाम्।
गुरुवे सर्वलोकानां श्री दत्तात्रेयाय नमः॥ ३४॥
इति श्रीस्कंदपुराणे उत्तरखंडे। ईश्वरपार्वती संवादस्य।
गुरुस्तोत्रं समाप्त॥ श्रीगुरुदत्तात्रेयार्पणमस्तु॥
ओं शान्तिश्शान्तिश्शान्तिः॥
श्री देविस्तोत्रम्॥ ३॥
ओं अस्य श्री देवीस्तोत्रं मन्त्रस्य विष्णुः ऋषिः।
अनुष्टुप छन्दः श्री महादेवी देवता॥
श्री महादेवी प्रसादसिद्ध्यर्थे जपे विनियोगः॥
अतः ध्यानम्।
ओं घण्टा शूलं हलानि शङ्ख मुसले चक्रं धनुः सायकं।
हस्त्ऽआब्जैर्-दधतीं घन्ऽआन्त विलसत् शीत्ऽआंशु तुल्यं प्रभां।
गैरी देहं समुद्भवां त्रिजगत्-आत्माधार भूतां।
महा-पूर्वां अत्र सरस्वतीं अनुभजे शुम्भ्ऽआदि दैत्य्ऽआर्दिनीम्॥
अतः श्री देवीस्तोत्रं प्रारम्भः।
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मः ताम् ॥१॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥ २॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः।३।
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥ ४॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥ ५॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ७॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ८॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ९॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १०॥
या देवी सर्वभूतेषु छायारुपेण संस्थिता॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ११॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १२॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३॥
या देवी सर्वभूतेषु क्षान्तिरूपेण।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १४॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १५॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १७॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १८॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १९॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २०॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २२॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २३॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २४॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २५॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥ २७॥
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत्।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २८॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा
सुरेन्द्रेण दिनेषु सेविता।
करोतु साः नः शुवहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः॥ २९॥
या सांप्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते॥
या च स्मृता तत्क्षणमेव हन्ति नः।
सर्वापदो भक्तीविनाम्रमूर्तिभिः॥ ३०॥
ओं नमश्चण्डिकायै॥
ओं शान्तिश्शान्तिश्शान्तिः॥
शिवध्यानावलीः॥ ४॥
वन्दे देवं ऊमापतिं सुरगुरूं वन्दे जगत्कारणं
वन्दे पन्नगभूक्षणं मृधरं वन्दे पशूनं पतिम्।
वन्दे सूर्यशशाङ्खवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥ १॥
शान्तं पद्मासनस्थं शशधरमिकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलम् वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तं।
नागं पाशं च घण्टां डमरुकसहितां चाङ्कुशं वामभागे
नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं नमामि॥ २॥
कर्पूरगौरं करुणावतारं संसरासारं भुजगेन्द्रहारं।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ३॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश परं न याति॥ ४॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्याद्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥ ५॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रनणनयनजं वा मानसंवऽपराधं।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्री महदेव शम्भो॥ ६॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे।
दन्तित्वक्कृतसुन्दरांबरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः॥ ७॥
ओं शान्तिश्शान्तिश्शान्तिः॥