top of page

॥ श्री अनुगीता पर्वन्॥

प्रथमोऽध्यायः

ओं श्री परमात्मने नमः।

श्रीमदनुगीता पर्वन्। अथ प्रथमोऽध्यायः॥

     गनमेगव उवाच।

सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः।

केशवार्जुनयोः का नु कथा समभवद्द्विज॥ १॥

     वैसंपयन उवाच।

कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम्।

तस्यां सभायां रम्यायां विजहार मुदा युतः॥ २॥

ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप।

यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥ ३॥

ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः।

निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥ ४॥

     अर्जुन उवाच।

विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते।

माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम्॥ ५॥

यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्।

तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः॥ ६॥

मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो।

भवांश्च द्वारकां गन्ता नचिरादिव माधव॥ ७॥

     वैसंपयन उवच।

एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत।

परिष्वज्य महातेजा वचनं वदतां वरः॥ ८॥

     वसुदेव उवाच।

श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्।

धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्॥ ९॥

अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम्।

नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव॥ १०॥

स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने।

न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥ ११॥

परं हि ब्रह्म कथितं योगयुक्तेन तन्मया।

इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥ १२॥

यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि।

शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे॥ १३॥

आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम।

ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत्॥ १४॥

अस्माभिः परिपृष्टश्च यदाह भरतर्षभ।

दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्॥ १५॥ 

     ब्रह्मन उवाच।

मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि।

भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो॥ १६॥

तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन।

शृणुष्वावहितो भूत्वा गदतो मम माधव॥ १७॥

कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः।

आससाद द्विजं कं चिद्धर्माणामागतागमम्॥ १८॥

गतागते सुबहुशो ज्ञानविज्ञानपारगम्।

लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः॥ १९॥

जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः।

द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥ २०॥

चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्।

दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः॥ २१॥

अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः।

तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥ २२॥

सम्भाषमाणमेकान्ते समासीनं च तैः सह।

यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥ २३॥

तं समासाद्य मेधावी स तदा द्विजसत्तमः।

चरणौ धर्मकामो वै तपस्वी सुसमाहितः।

प्रतिपेदे यथान्यायं भक्त्या परमया युतः॥ २४॥

विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्।

परिचारेण महता गुरुं वैद्यमतोषयत्॥ २५॥

प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः।

भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः॥ २६॥

तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः।

सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन॥ २७॥ 

     सिद्ध उवाच।

विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः।

गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम्॥ २८॥

न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः।

स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः॥ २९॥

अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्।

काममन्युपरीतेन तृष्णया मोहितेन च॥ ३०॥

पुनः पुनश्च मरणं जन्म चैव पुनः पुनः।

आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः॥ ३१॥

मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः।

सुखानि च विचित्राणि दुःखानि च मयानघ॥ ३२॥

प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह।

धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्॥ ३३॥

अवमानाः सुकष्टाश्च परतः स्वजनात्तथा।

शारीरा मानसाश्चापि वेदना भृशदारुणाः॥ ३४॥

प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः।

पतनं निरये चैव यातनाश्च यमक्षये॥ ३५॥

जरा रोगाश्च सततं वासनानि च भूरिशः।

लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥ ३६॥

ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च।

लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया।

ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया॥ ३७॥

नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्।

आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा॥ ३८॥

उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा।

इतः परं गमिष्यामि ततः परतरं पुनः।

ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः॥ ३९॥

नाहं पुनरिहागन्ता मर्त्यलोके परन्तप।

प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते॥ ४०॥e

यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः।

अभिजाने च तदहं यदर्थं मा त्वमागतः।

अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्॥ ४१॥

भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण।

परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम्॥ ४२॥

बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च।

येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥ ४३॥

ओं तत्सदिति अश्वमेधपर्वन् श्री अनुगीता योगशास्त्रे।

श्रीकृष्णार्जुनसंवादे षोडशोऽध्यायः समाप्ता॥ 

        श्रीगुरुनाथः चरणायार्पणमस्तु ॥ 

          ओं शान्तिश्शान्तिश्शान्तिः॥

____________

* षोडशोऽध्यायः॥

Copyright © 2018 - 2025 mahaasiddhaanaaM kramaH. Todos los derechos reservados.

bottom of page